|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.84. अध्यायः 084
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरम्प्रत्यौरसादिपुत्रनिरूपणम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक्।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते॥ 13-84-1(84771)
विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम्।
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि॥ 13-84-2(84772)
भीष्म उवाच। 13-84-3x(7039)
`आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे॥ 13-84-3(84773)
स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम्।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम्॥ 13-84-4(84774)
अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता।
पुत्रिका स्याद्दुहितरि सङ्कल्पे वाऽपि वा सुतः॥ 13-84-5(84775)
तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा।
स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः॥ 13-84-6(84776)
माता पिता च दद्यातां यमद्भिः पुत्रमापदि।
सदृशप्रीतिसंयुक्तो विज्ञेयो दत्रिमः सुतः॥ 13-84-7(84777)
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम्।
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयः स तु कृत्रिमः॥ 13-84-8(84778)
उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित्।
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पतः॥ 13-84-9(84779)
मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते॥ 13-84-10(84780)
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः।
तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवे॥ 13-84-11(84781)
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती।
वोढुः स गर्भो भवति सहोढ इति उच्यते॥ 13-84-12(84782)
क्रीणीयाद्यस्त्वपर्यार्थं मातापित्रोर्यमन्तिकात्।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा॥ 13-84-13(84783)
या पत्या वा परित्यक्ता विधवा वा स्वकेच्छया।
उत्पादयति पुनर्भूत्वा स पौनर्भव उच्यते॥ 13-84-14(84784)
सा चेदक्षतयोनिः स्याद्गतप्रत्याङ्गताऽपि वा।
पौनर्भवेन भर्त्रा सा पुनसंस्कारमर्हति॥ 13-84-15(84785)
मातापितृहनो यः स्यात्त्यक्तो वा स्यादकारणम्।
आत्मानं स्पर्शयेद्यस्तु स्वयंदत्तस्तु स स्मृतः॥ 13-84-16(84786)
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम्।
स पावयन्नेव शवस्तस्मात्पारशवः स्मृतः॥ 13-84-17(84787)
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत्।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः॥ 13-84-18(84788)
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान्।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः॥ 13-84-19(84789)
प्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत्।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत्॥ 13-84-20(84790)
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत्।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः॥ 13-84-21(84791)
आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा॥ 13-84-22(84792)
पतितस्य तु भार्याया भर्त्रा सुसमवेतया।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः॥ 13-84-23(84793)
षडपध्वंसजाश्चापि कानीनापसदास्तथा।
इत्येते वै समाख्यातास्तान्विजानीहि भारत॥ 13-84-24(84794)
युधिष्ठिर उवाच। 13-84-25x(7040)
षडपध्वंसजाः के स्युः के वाऽप्यपसदास्तथा।
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि॥ 13-84-25(84795)
भीष्म उवाच। 13-84-26x(7041)
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर।
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत॥ 13-84-26(84796)
एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः।
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु॥ 13-84-27(84797)
चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च।
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपसदास्त्रयः॥ 13-84-28(84798)
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ।
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु॥ 13-84-29(84799)
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः।
पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप॥ 13-84-30(84800)
युधिष्ठिर उवाच। 13-84-31x(7042)
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्।
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह॥ 13-84-31(84801)
भीष्म उवाच। 13-84-32x(7043)
रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत्।
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे॥ 13-84-32(84802)
युधिष्ठिर उवाच। 13-84-33x(7044)
रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम्।
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम्॥ 13-84-33(84803)
भीष्म उवाच। 13-84-34x(7045)
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे।
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत्॥ 13-84-34(84804)
पुत्रकामो हि पुत्रार्थे यां वृणीते विशाम्पते।
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः॥ 13-84-35(84805)
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ।
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ॥ 13-84-36(84806)
क्वचिच्च कुतकः पुत्रः सङ्ग्रहादेव लक्ष्यते।
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर॥ 13-84-37(84807)
युधिष्ठिर उवाच। 13-84-38x(7046)
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते।
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत॥ 13-84-38(84808)
भीष्म उवाच। 13-84-39x(7047)
मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत्।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः॥ 13-84-39(84809)
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्ष्यते।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते॥ 13-84-40(84810)
युधिष्ठिर उवाच। 13-84-41x(7048)
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्।
देया कन्या कथं चेति तन्मे ब्रूहि पितामह॥ 13-84-41(84811)
भीष्म उवाच। 13-84-42x(7049)
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा।
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते॥ 13-84-42(84812)
तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत।
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर॥ 13-84-43(84813)
संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये।
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ॥ 13-84-44(84814)
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ॥
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः। 13-84-45(84815)
क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत॥
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः। 13-84-46(84816)
`स्वं जन्मे मातृगोत्रेण संस्कारं ब्राह्मणादयः॥'
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृश्यते। 13-84-47(84817)
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥ ॥ 13-84-48(84818)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीतितमोऽध्यायः॥ 84 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-84-2 विप्रवादाः विविधाः प्रवादः पूर्वोक्ता एव॥ 7-84-6 तल्पे कलत्रे॥ 7-84-22 अनन्तरजः औरसः निरुक्तजः स्वक्षेत्रेऽन्यो रेतःसेकार्थमुक्तस्तज्जः। प्रसृतोऽनिरुक्तोऽपि यो लौल्यात्परक्षेत्रे रेतः सिञ्चति तज्जः प्रसृतजः॥ 7-84-23 तथा पतितात्स्वभार्यायामेव जातः। भार्यायाः तृतीयार्थे षष्ठी। दत्तः पञ्चमः। कृतः क्रीतः स्वयमुपायगम्यो वा षष्ठः। अध्यूढः यस्य माता गर्भवत्येव ऊढा तादृशः सप्तमः॥ 7-84-24 षडपध्वंसजा वक्ष्यमाणाः। कानीनः कन्यायां विवाहात् प्रागुत्पन्नश्चतुर्दशः। अपसदा वक्ष्यमाणाः षट्। एते विंशतिः। तान्सर्वान् पुत्रानिति विजानीहि॥ 7-84-34 कारणान्तरे लोकापवादादिभये सति॥ 7-84-35 यां गर्भवती कन्यां वृणीते तत्र स पुत्रो वोदुरेव क्षेत्रजो नतु सेक्तुरात्मज॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|